|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.201. अध्यायः 201
Mahabharata - Adi Parva - Chapter Topics
रङ्गे आगतानां राज्ञां नामकथनम्॥ 1 ॥
Mahabharata - Adi Parva - Chapter Text
धृष्टद्युम्न उवाच। 1-201-0x(1132)(8911)
दुर्योधनो दुर्विषहो दुर्मुखो दुष्प्रधर्षणः।
विविंशतिर्विकर्णश्च सहो दुःशासनस्तथा॥ 1-201-1(8912)
युयुत्सुर्वायुवेगश्च भीमवेगरवस्तथा।
उग्रायुधो बलाकी च करकायुर्विरोचनः॥ 1-201-2(8913)
कुण्डकश्चित्रसेनश्च सुवर्चाः कनकध्वजः।
नन्दको बाहुशाली च तुहुण्डो विकटस्तथा॥ 1-201-3(8914)
एते चान्ये च बहवो धार्तराष्ट्रा महाबलाः।
कर्णेन सहिता वीरास्त्वदर्थं समुपागताः॥ 1-201-4(8915)
असङ्ख्याता महात्मानः पार्थिवाः क्षत्रियर्षभाः।
शकुनिः सौबलश्चैव वृषकोऽथ बृहद्बलः॥ 1-201-5(8916)
एते गान्धारराजस्य सुताः सर्वे समागताः।
अश्वत्थामा च भोजश्च सर्वशस्त्रभृतां वरौ॥ 1-201-6(8917)
समवेतौ महात्मानौ त्वदर्थे समलङ्कृतौ।
बृहन्तो मणिमांश्चैव दण्डधारश्च पार्थिवः॥ 1-201-7(8918)
सहदेवजयत्सेनौ मेघसन्धिश्च पार्थिवः।
विराटः सह पुत्राभ्यां शङ्खेनैवोत्तरेण च॥ 1-201-8(8919)
वार्धक्षेमिः सुशर्मा च सेनाबिन्दुश्च पार्थिवः।
सुकेतुः सह पुत्रेण सुनाम्ना च सुवर्चसा॥ 1-201-9(8920)
सुचित्रः सुकुमारश्च वृकः सत्यधृतिस्तथा।
सूर्यध्वजो रोचमानो नीलश्चित्रायुधस्तथा॥ 1-201-10(8921)
अंशुमांश्चेकितानश्च श्रेणिमांश्च महाबलः।
समुद्रसेनपुत्रश्च चन्द्रसेनः प्रतापवान्॥ 1-201-11(8922)
जलसन्धः पितापुत्रौ विदण्डो दण्ड एव च।
पौण्ड्रको वासुदेवश्च भगदत्तश्च वीर्यवान्॥ 1-201-12(8923)
कलिङ्गस्ताम्रलिप्तश्च पत्तनाधिपतिस्तथा।
मद्रराजस्तथा शल्यः सहपुत्रो महारथः॥ 1-201-13(8924)
रुक्माङ्गदेन वीरेण तथा रुक्मरथेन च।
कौरव्यः सोमदत्तश्च पुत्रश्चास्य महारथः॥ 1-201-14(8925)
समवेतास्त्रयः शूरा भूरिर्भूरिश्रवाः शलः।
सुदक्षिणश्च काम्भोजो दृढधन्वा च पौरवः॥ 1-201-15(8926)
बृहद्बलः सुषेणश्च शिबिरौशीनस्तथा।
पटच्चरनिहन्ता च कारूषाधिपतिस्तथा॥ 1-201-16(8927)
सङ्कर्षणो वासुदेवो रौक्मिणेयश्च वीर्यवान्।
साम्बश्च चारुदेष्णश्च प्राद्युम्निः सगदस्तथा॥ 1-201-17(8928)
अक्रूरः सात्यकिश्चैव उद्धवश्च महामतिः।
कृतवर्मा च हार्दिक्यः पृथुर्विपृथुरेव च॥ 1-201-18(8929)
विदूरथश्च कङ्कश्च शङ्कुश्च सगवेषणः।
आशावहोऽनिरुद्धश्च समीकः सारिमेजयः॥ 1-201-19(8930)
वीरो वातपतिश्चैव झिल्लीपिण्डारकस्तथा।
उशीनरश्च विक्रान्तो वृष्णयस्ते प्रकीर्तिताः॥ 1-201-20(8931)
भगीरथो बृहत्क्षत्रः सैन्धवश्च जयद्रथः।
बृहद्रथो बाह्लिकश्च श्रउतायुश्च महारथः॥ 1-201-21(8932)
उलूकः कैतवो राजा चित्राङ्गदशुभाङ्गदौ।
वत्सराजश्च मतिमान्कोसलाधिपतिस्तथा॥ 1-201-22(8933)
शिशुपालख्च विक्रान्तो जरासन्धस्तथैव च।
एते चान्ये च बहवो नानाजनपदेश्वराः॥ 1-201-23(8934)
त्वदर्थमागता भद्रे क्षत्रियाः प्रथिता भुवि।
एते भेत्स्यन्ति विक्रान्तास्त्वदर्थे लक्ष्यमुत्तमम्।
विध्यते य इदं लक्ष्यं वरयेथाः शुभेऽद्य तम्॥ ॥ 1-201-24(8935)
इति श्रीमन्महाभारते आदिपर्वणि स्वयंवरपर्वणि एकाधिकद्विशततमोऽध्यायः॥ 201 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|